वांछित मन्त्र चुनें

आ न॒: स्तोम॒मुप॑ द्र॒वद्धि॑या॒नो अश्वो॒ न सोतृ॑भिः । यं ते॑ स्वधावन्त्स्व॒दय॑न्ति धे॒नव॒ इन्द्र॒ कण्वे॑षु रा॒तय॑: ॥

अंग्रेज़ी लिप्यंतरण

ā naḥ stomam upa dravad dhiyāno aśvo na sotṛbhiḥ | yaṁ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ ||

पद पाठ

आ । नः॒ । स्तोम॑म् । उप॑ । द्र॒वत् । हि॒या॒नः । अश्वः॑ । न । सोतृ॑ऽभिः । यम् । ते॒ । स्व॒धा॒ऽव॒न् । स्व॒दय॑न्ति । धे॒नवः॑ । इन्द्र॑ । कण्वे॑षु । रा॒तयः॑ ॥ ८.४९.५

ऋग्वेद » मण्डल:8» सूक्त:49» मन्त्र:5 | अष्टक:6» अध्याय:4» वर्ग:14» मन्त्र:5 | मण्डल:8» अनुवाक:6» मन्त्र:5